"जलवन्दनं" - TOURIST SANDESH

Breaking

रविवार, 2 जुलाई 2023

"जलवन्दनं"

 "जलवन्दनं"

                    'सुभाषचन्द्र: नौटियाल:'
                                                      लेखकः
                                         आत्मसत्ताकारकं जलम्


सोमदेवपवस्वमानदेवयो:  सान्निध्यकारणात् सम्पूर्णजगत: परमशक्तिनिर्माणकारणात् सूर्यदेवस्य, वायुदेवस्य, चन्द्रदेवस्य प्रभावकारणात् हे जलसमूह! त्वं सर्वशक्तिमान् असि । त्वयि निहितानाम् अनन्तशक्तेः कारणात् त्वं आत्मशुद्धि-आत्म-तृप्ति-आत्म-मुक्ति-उपायः, त्वं परमात्मनि आत्मनः एकतायाः स्थापनामूलः असि। अत एव अहो भगवन् ! त्वं आत्मसत्ताकारकः इति उच्यते । त्वं सर्वदा पूजनीय: असि यतः त्वं समग्रे जगति सकारात्मकं प्राणदायी असि ।

हे जलदेव ! भवतः शक्तिप्रेरिताः वयं एतस्य जलस्य स्तुतिं कर्तुं समर्थाः स्मः। अस्माकं स्तुतिं प्रतिगृह्यताम् विनयेन भगवन् !

हे सुखकारक! पुष्टिदायक  ! जलदेव ! भवतः प्रेरणाभिः अस्माकं सृजनशीलता सर्वदा जागृतावस्थायां भवेत्, अस्माकं दिव्यशक्तयः कदापि क्षीणाः न भवेयुः।

हे जलदेव!  त्वं सुखस्य मूलः अस्ति, आत्मशक्तिहेतु भवद्भिः दत्तैः भवतः सृजनशक्तैः प्रेरिताः वयं जगतः हिताय कार्येषु निरताः 'देवानाम्' सहायकाः सदा भवेम। अस्माकं परमसृजनात्मकाः दिव्यशक्तयः कदापि  स्खलिता: न भवेयु; 

हे आत्मतृप्तिदायकजलदेव! सम्पूर्णस्य जगतः आसुरीप्रवृत्तिः, हानिकारकविनाशकारीशक्तयः च नाशयित्वा अस्य चराचरजगतः सृजनात्मकशक्तयः जागृत्य स्थायिशान्तिं स्थापयतु।

हे श्रेष्ठतादायक! जलसमूह ! त्वयि पश्यामः परमात्मनः प्रतिबिम्बम्। अस्माभिः विनयेन कृतं स्तुतिं स्वीकृत्य, अस्मान् प्रति सर्वदा दयालुदृष्टिः भवतु।

                                        

अनुवादक- श्री कुलदीप मैन्दोला, संस्कृत शिक्षक, राजकीय इण्टर कॉलेज, कण्वनगरी कोटद्वार

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें